|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.61. अध्यायः 061
Mahabharata - Adi Parva - Chapter Topics
वैशम्पायनेन जनमेजयाय संक्षिप्य भारतकथाकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-61-0x(297)(2385)
`शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः।
विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः॥' 1-61-1(2386)
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः।
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥ 1-61-2(2387)
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥ 1-61-3(2388)
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्।
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे॥ 1-61-4(2389)
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्।
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च॥ 1-61-5(2390)
यथा च युद्धमभवत्पृथिवीक्षयकारकम्।
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ॥ 1-61-6(2391)
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्।
नचिरादेव विद्वांसो वेदे धनुषि चाभवन्॥ 1-61-7(2392)
तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान्।
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः॥ 1-61-8(2393)
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः।
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥ 1-61-9(2394)
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः।
पाम्डवान्विविधोपायै राज्यहेतोरपीडयत्॥ 1-61-10(2395)
ददावथ विषं पापो भीमाय धृतराष्ट्रजः।
जरयामास तद्वीरः सहान्नेन वृकोदरः॥ 1-61-11(2396)
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्।
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥ 1-61-12(2397)
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्।
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥ 1-61-13(2398)
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्।
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा॥ 1-61-14(2399)
तेषां तु विप्रकारेषु तेषु तेषु महामतिः।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥ 1-61-15(2400)
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥ 1-61-16(2401)
यदा तु विविधोपायैः संवृतैर्विवृतैरपि।
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥ 1-61-17(2402)
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः।
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥ 1-61-18(2403)
`तत्र तान्वासयामास पाण्डवानमितौजसः।'
सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः।
ततो विवासयामास राज्यभोगबुभुक्षया॥ 1-61-19(2404)
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्।
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥ 1-61-20(2405)
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्।
ततः संप्राप्य कौन्तेया नगरं वारणावतम्॥ 1-61-21(2406)
न्यवसन्त महात्मानो मात्रा सह परन्तपाः।
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥ 1-61-22(2407)
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः।
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥ 1-61-23(2408)
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्।
प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः॥ 1-61-24(2409)
ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे।
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥ 1-61-25(2410)
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः।
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥ 1-61-26(2411)
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः।
वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः॥ 1-61-27(2412)
ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥ 1-61-28(2413)
तत्राससाद क्षुधितं पुरुषादं वृकोदरः।
भीमसेनो महाबाहुर्बकं नाम महाबलम्॥ 1-61-29(2414)
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः।
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥ 1-61-30(2415)
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्।
श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्॥ 1-61-31(2416)
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः।
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः॥ 1-61-32(2417)
ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥ 1-61-33(2418)
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः।
तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥ 1-61-34(2419)
वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः।
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥ 1-61-35(2420)
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः।
तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्॥ 1-61-36(2421)
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः।
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥ 1-61-37(2422)
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्।
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः॥ 1-61-38(2423)
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा।
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥ 1-61-39(2424)
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्।
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता॥ 1-61-40(2425)
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः।
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥ 1-61-41(2426)
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः।
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥ 1-61-42(2427)
अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्।
स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥ 1-61-43(2428)
`तीर्थयात्रां च कृतवान्नागकन्यामवाप च।
पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः'॥ 1-61-44(2429)
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन।
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥ 1-61-45(2430)
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्।
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता॥ 1-61-46(2431)
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह।
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्॥ 1-61-47(2432)
बीभत्सुर्वासुदेवेन सहितो नृपस्तम।
नातिभारो हि पार्थस्य केशवेन सहाभवत्॥ 1-61-48(2433)
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव।
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥ 1-61-49(2434)
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्।
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥ 1-61-50(2435)
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्।
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥ 1-61-51(2436)
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्।
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च॥ 1-61-52(2437)
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्।
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥ 1-61-53(2438)
नालभन्त महाराज ततो युद्धमवर्तत।
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥ 1-61-54(2439)
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः।
`इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून्॥ 1-61-55(2440)
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते।
गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम्॥ 1-61-56(2441)
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च।
महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्'॥ 1-61-57(2442)
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्।
भेदो राज्यविनाशश्च जयश्च जयतांवर॥ ॥ 1-61-58(2443)
इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकषष्टितमोऽध्यायः॥ 61 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-61-4 प्रोत्साहतीव प्रोत्साहयतीव। परिस्पन्दमुदुत्साहयतीव मे इति पाठेगुरोर्वक्त्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्या मुत्प्रीतिः सा प्रोत्साहयती॥ 4 ॥ 1-61-7 नचिरात् शीघ्र। विद्वांसोऽमवन्॥ 1-61-12 प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे। वृकनामा बहुभ क्षोऽग्निरुदरे यस्य स वृकोदरः॥ 1-61-17 संवृतैर्गुप्तैः। विवृतै प्रकाशैः। दैवभाव्यर्थरक्षितान् दैवेनादृष्टेन भावी कुरुक्षयपाण्ड वराज्यलाभादिरर्थस्तस्मै रक्षितान्॥ 1-61-18 वृषः कर्णः जातुषं लाक्षामयम्॥ 1-61-20 अभवन्मित्रमित्यपि पाठः। क्षत्ता विदुरः॥ 1-61-21 तेन क्षत्तुर्मन्त्रणेन॥ 1-61-31 स्वयं वृणुते इति स्वयंवरा ताम्॥ 1-61-33 शान्तनवेन भीष्मेण॥ 1-61-36 आदाय भागश इत्यपि पाठः॥ 1-61-48 नातीति खाण्डवदाह इति शेषः॥ 1-61-49 व्यवसायो बुद्धिः॥ 1-61-50 बाणैर्युक्ताविति शेषः। कपिलक्षणं वानरध्वजं। यत्र खाण्डवदाहे॥ एकषष्टितमोऽध्यायः॥ 61 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|